Varamhalakshmi pooja katha in sanskrit - || वरमहालक्ष्मी पूजायाः कथा ||

सामान्यतः वरमहालक्ष्मी पूजा समाप्य कथां श्रावणम् अभ्यासः | व्रतरत्नमाला इति कन्नड पुस्तके इमं कथामहं प्राप्तवान् | तां संस्कृते लेखनीयमिति मया चिन्तितम् | तस्य चिन्तनस्य प्रतिफलमेव अधोनिर्दिष्ट कथा |

दोषाः सन्ति चेत् कृपया सूचयन्तु |

वि.सू: संकल्पे इयं व्रतविधिः कथा च भविष्योत्तरपुराणे भवतीति पठितवान् | किन्तु कुत्र (कस्मिन्नध्याये कस्मिन् श्लोके) इति न ज्ञातवान् | यःकोऽपि जानाति चेत् कृपया सूचयतु |


इति श्री वरमहालक्ष्मी कथा प्रारम्भः |


कैलासशिखरे रम्ये | नानागण निषेविते ||
मन्दारविटपिप्रान्ते नानामणिभूषिते  ||
पाटलाशोकपुन्नाग || खर्जूर वकुळान्विते ||
कुबेरवरुणेन्द्रादि || दिक्पालैश्च समावृते |
नारदागस्त्य वाल्मीक | पराशर समावृते ||
रत्नपीठे सुखासीनम् | शङ्करं लोकशङ्करम् ||
पप्रच्छ गौरी सन्तुष्टा | लोकानुग्रहकाम्यया ||

गौरी उवाच ||

भगवन् सर्वलोकेश | सर्व भूतहितेरतः ||
यद्रहस्यमिदं पुण्यं तदाचक्ष्व ममानघ ||

 

|| ईश्वर उवाच ||

वरलक्ष्मी व्रतं पुण्यम् | वक्षाणु श्रुणु पार्वति ||
कुण्डिनं नाम नगरम् | सर्वमण्डनमण्डितम् ||
हेमप्राकारसंयुक्तं चामीकर कृतोज्वलम् ||
तताभूब्ब्राह्मणीकाच नाम्ना चारुमतीशृता ||
पतिभक्तिरता साध्वी श्वश्रूश्वशुरलोर्मता |
कलावती सा विदुषी सततं मञ्जुभाषिणी ||

 

तस्याःप्रसन्नचित्ताय लक्ष्मीः स्वप्न गतातथा ||
दहिकल्पाणि भद्रं ते | वरलक्ष्मीः समागता
नाभोमासे पूर्णिमायाम् | नातिक्रान्दे भृगोर्दिने ||

मत्पूजा तत्र कर्तव्य वरं कदास्यामि काक्षितम् ||
इत्युक्त्वा वरलक्ष्मीं  सातुष्टा परयामुदा ||
नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ||
शरण्ये त्रिजगद्वन्द्ये | विश्नुवक्षस्थालाये |
त्वयाव लोतितः सद्यः सधन्यः सुगुणान्वितः ||
सश्लाघ्यः सकुटुबीच | सशूरः सचपण्डितः ||
जन्मान्तर सहस्रेषु | यया सुकृतङ्कर ||
आतस्त्वत्पाद युगळम् | पश्यामि हरिवल्लभ |
एवं स्तुता कमला | पादस्तस्यै बहून्वरान् |
ततश्चारुमती साध्वी | स्वप्नादुत्थाय सम्भ्रमात्
तत्सर्व कथयामास | बन्धूनापुरदस्त्रता ||
 

श्रुत्वातु बन्धावाः सर्वे | स्वाधुसाध्वीतिजाब्रुवान् ||
तथैवकरावामेति || तदागमनकाङ्क्षिणः ||
भाग्योदयेन सम्प्राप्ते | वरलक्ष्मीदिनेतथा ||
स्त्रीयःप्रसन्नहृदयाः | निर्मलाश्चित्रमानसः ||
नूतनैस्तण्डुलैः पूर्णे कुम्भे च पटवल्लवैः ||
सायञ्चारुमतीमुख्याश्चक्रुः पूजां प्रयत्नतः ||
पद्मासने पद्मकरे | सर्वलोकैक पूजिते ||
नारायणप्रिये देवी | सुप्रीतभव सर्वदा ||
इत्यादि मन्त्रैसकलैरुपचारान् यथाक्रमं
कृत्वातु दक्षिणेहस्ते सुसूत्रन्दधु श्रीयन् ||
हविश्यं स घृतञ्चैव | वरलक्ष्म्यैर्निवेदयन् ||

गन्धादिभिरलकृत्य सशीलं वृद्धभूसुरम् ||
तस्मैदत्वा वायनञ्च | द्वादशपूपसंयुतम् ||
ततोदेवि समीपेतु | हविश्यञ्च कुरङ्गना |
अथ लक्ष्मीप्रसादेन | मुक्तमाणिक्य भूषिताः |
पुत्रपौत्रैः परिवृता | धनधान्य संवृद्धिभिः ||
अन्नदानरता नित्यम् | बन्धुपोशणतत्पराः ||
स्वंस्वंसद्म समाजग्मु | हस्त्यश्वरथसङ्कुलम् ||
अन्योन्यं कथयामासुः | श्रुतं चारुमतीमुखात् ||
इदं सत्यमिदं सत्यम् | नरोभद्राणिपश्यन्ति
वयञ्चारुमती मुख्या | उपलब्धामनोरथा ||
पुण्य चारुमती धन्या | भयो भार्गवती चिरम् ||
द्वयं यस्मान्महालक्ष्म्यै | बोधितं हि व्रतोत्तमम् ||
इति चारुमतीं साध्वीम् तुष्टवुस्तत्रयोषितः
वरलक्ष्मीव्रतं नाम्ना | तदादि भुविश्रुतम्
एतत्ते सर्व मुख्यातं व्रतानामुत्तमं व्रतम् ||
य इदं श्रुणुयाद्वापि | श्रावयेद्वा समाहितः ||
सिध्यन्ति सर्वकार्याणि | वरलक्ष्मी प्रसादितः ||

...o...








Comments