Posts

Varamhalakshmi pooja katha in sanskrit - || वरमहालक्ष्मी पूजायाः कथा ||

सामान्यतः वरमहालक्ष्मी पूजा समाप्य कथां श्रावणम् अभ्यासः | व्रतरत्नमाला इति कन्नड पुस्तके इमं कथामहं प्राप्तवान् | तां संस्कृते लेखनीयमिति मया चिन्तितम् | तस्य चिन्तनस्य प्रतिफलमेव अधोनिर्दिष्ट कथा | दोषाः सन्ति चेत् कृपया सूचयन्तु | वि.सू: संकल्पे इयं व्रतविधिः कथा च भविष्योत्तरपुराणे भवतीति पठितवान् | किन्तु कुत्र (कस्मिन्नध्याये कस्मिन् श्लोके) इति न ज्ञातवान् | यःकोऽपि जानाति चेत् कृपया सूचयतु | इति श्री वरमहालक्ष्मी कथा प्रारम्भः | कैलासशिखरे रम्ये | नानागण निषेविते || मन्दारविटपिप्रान्ते नानामणिभूषिते  || पाटलाशोकपुन्नाग || खर्जूर वकुळान्विते || कुबेरवरुणेन्द्रादि || दिक्पालैश्च समावृते | नारदागस्त्य वाल्मीक | पराशर समावृते || रत्नपीठे सुखासीनम् | शङ्करं लोकशङ्करम् || पप्रच्छ गौरी सन्तुष्टा | लोकानुग्रहकाम्यया || गौरी उवाच || भगवन् सर्वलोकेश | सर्व भूतहितेरतः || यद्रहस्यमिदं पुण्यं तदाचक्ष्व ममानघ ||   || ईश्वर उवाच || वरलक्ष्मी व्रतं पुण्यम् | वक्षाणु श्रुणु पार्वति || कुण्डिनं नाम नगरम् | सर्वमण्डनमण्डितम् || हेमप्राकारसंयुक्तं चामीकर कृतोज्वलम् || तताभूब्ब्राह्मणीकाच नाम्ना च